Loading



विवरणपत्रम् - २०२४


Click this line to download Notification

सूचना

परिचयः – अस्माकं कार्यम्: संस्कृतभाषायाः पुनरुज्जीवनम्, संस्कृतेः पुनरुत्थानम्, भारतस्य पुनर्निर्माणम् । संस्कृतभारती (या १९८१ तमे वर्षे आरब्धा) कश्चन उद्यमः यः निरन्तरं संस्कृतभाषायाः, साहित्यस्य, परम्परायाः, संस्कृते निहितज्ञानभण्डारस्य च संरक्षणं विकासं प्रचारं च करोति । संस्कृतभारती निष्ठावतां समर्पितानां कार्यकर्तॄणां द्वारा सङ्घटनं, विना लाभापेक्षां समाजे सर्वत्र जाति-धर्म-वर्ग-लिङ्गभेदान् परित्यज्य संस्कृतज्ञानं प्रसारयति ।

प्रियसंस्कृतानुरागिणः, वयं सानन्दं विवक्षामः यत् आन्ध्रप्रदेशस्य संस्कृतभारतीद्वारा प्रसिद्धमहाकाव्यं रामायणमधिकृत्य राष्ट्रीयस्तरीया RamayanaOlympiad इति online माध्यमेन परीक्षा एका समर्पित-प्रतिष्ठितायोजनारूपेण परिकल्पिता वर्तते । अस्याः ओलम्पियाड् परीक्षायाः उद्देश्यं वर्तते यत् विश्वे आबालवृद्धं संस्कृतभाषाज्ञाः सर्वेऽपि रामायणरसप्रश्नानां द्वारा संस्कृतमाध्यमेन रामायणकथां सम्यक् अवगच्छेयुरिति । अतः सर्वेऽपि संस्कृतज्ञाः सादरं विनिवेद्यन्ते यत् अस्यां परीक्षायां सोत्साहं भागं गृहीत्वा संस्कृतेन रामायणस्य ज्ञानं प्राप्नुयुरिति । विदेशेभ्यः ये केऽपि इच्छुकाः संस्कृतपठितारः अस्यां परीक्षायां भागं ग्रहीतुम् अर्हन्ति। परं परिणामाः पुरस्काराश्च भारतस्तरे प्रदास्यन्ते ।

खण्डः १ :
रामायणस्य अवगमनम्

महाकाव्यस्य मूल्यानि : रामायणमेकं पूज्यं शास्त्रं यत् कालातीतप्रज्ञां शिक्षां च समाहितं करोति, नैतिकतायाः, कर्तव्यस्य, धर्मस्य च गहनम् अन्वेषणं प्रददाति।

खण्डः २:
पञ्जीकरणं शुल्कसूचनाश्च

***सर्वेभ्यः 2% गेट्वे शुल्कम् & 18% जीएसटी शुल्कं प्रयोज्यम् अस्ति।***


पञ्जीकरणस्य प्रारम्भदिनाङ्गः १५-०५-२०२४
पञ्जीकरणाय अन्तिमदिनाङ्कः ०१-०८-२०२४

बालसमूहः (वयः - 10 तः 18वत्सरपर्यन्तम्)

परीक्षास्तरः परीक्षाशुल्कम्
प्रथमस्तरपरीक्षा Rs. १00/-
द्वितीयस्तरपरीक्षा Rs. ५0/-

प्रौढसमूहः (१८ वर्षाणाम् उपरि)

परीक्षास्तरः परीक्षाशुल्कम्
प्रथमस्तरपरीक्षा Rs.१00/-
द्वितीयस्तरपरीक्षा Rs.१00/-
तृतीयस्तरपरीक्षा Rs.५0/-

खण्डः ३:
परीक्षाविवरणं पाठ्यक्रमश्च

***परीक्षामाध्यमम् – सर्वे प्रश्नाः संस्कृतभाषायामेव भवन्ति । सर्वपरीक्षाः आभासमाध्यमेन भविष्यन्ति ।***
***सर्वपरीक्षाः आभासमाध्यमेन भविष्यन्ति ।***

बालसमूहः

परीक्षास्तरः परीक्षायाः दिनाङ्कः
प्रथमस्तरपरीक्षा २५-०८-२०२४
द्वितीयस्तरपरीक्षा ०३-११-२०२४

परीक्षायाः विवर्णम्

  1. प्रथमस्तरीया परीक्षा सम्पूर्णरामायणमाधारिता भवति ।
  2. परीक्षायां ६० अङ्कानां कृते ६० प्रश्नाः प्रदास्यन्ते।
  3. उभयस्तरयोः परीक्षायाः ५०निमेषात्मकावधिः भविष्यति।
  4. स्तर-१ कृते ऋणात्मकाङ्काः न भवन्ति।
  5. द्वितीयस्तरस्य कृते प्रत्येकपाठ्यप्रणाली (स्तरः-१ +विशिष्टश्लोकाश्च) भवति ।
  6. स्तर-२ मध्ये ऋणात्मकाङ्काःभविष्यन्ति।
  7. सर्वे प्रश्नाः संस्कृतभाषया दीयन्ते अपि च वाल्मीकिरामायणमाद्धृत्यैव भवन्ति ।
  8. द्वितीयस्तरस्य कृते परीक्षणार्थं पृथक्तया निश्शुल्कपाठ्यक्रमः प्रदास्यते ।
  9. ये अभ्यर्थिनः स्तर-2 कृते अर्हाः भविष्यन्ति ये स्तर-1 मध्ये 80% (48अङ्काः) अङ्कान् प्राप्स्यन्ति ।

प्रौढसमूहः

परीक्षास्तरः परीक्षायाः दिनाङ्कः
प्रथमस्तरपरीक्षा ०१-०९-२०२४
द्वितयीस्तरपरीक्षा ०६-१०-२०२४
तृतीयस्तरपरीक्षा १०-११-२०२४

परीक्षायाः विवर्णम्

  1. प्रथमस्तरपरीक्षायै पाठ्यप्रणाली – बालकाण्डः अयोध्याकाण्डश्च
  2. द्वितीयस्तरपरीक्षायै पाठ्यप्रणाली – अरण्यकाण्डः किष्किन्धाकाण्डश्च
  3. तृतीयस्तरपरीक्षायै पाठ्यप्रणाली – सुन्दरकाण्डः,युद्धकाण्डः उत्तरकाण्डः विशिष्टश्लोकाश्च
  4. परीक्षाशुल्कप्रदातॄणामेव पाठ्यप्रणाली दीयते।
  5. परीक्षायां ६० अङ्कानां कृते ६० प्रश्नाः प्रदास्यन्ते।
  6. त्रयाणां स्तराणां परीक्षाणामपि ५०निमेषात्मकावधिः भविष्यति।
  7. प्रौढेभ्यः स्तर-१, २ द्वयोः ऋणात्मकाङ्काः न भवन्ति।
  8. प्रौढेभ्यः स्तर-३ मध्ये ऋणात्मकाङ्काः भविष्यन्ति।
  9. सर्वे प्रश्नाः संस्कृतभाषया दीयन्ते अपि च वाल्मीकिरामायणमाद्धृत्यैव भवन्ति ।
  10. स्नातक-आचार्य-विद्यावारिधिस्तरच्छात्राः संस्काभ्यासकाः, संस्कृतशिक्षकाः संस्कृतभाषाज्ञास्सर्वेऽपि लेखितुम् अर्हन्ति ।
  11. अभ्यर्थिनः स्तर-3 कृते अर्हाः भविष्यन्ति ये स्तर-2 मध्ये 80% (48अङ्काः) प्राप्नुवन्ति ।

सर्वपरीक्षाः आभासमाध्यमेन भविष्यन्ति ।

पाठ्यक्रमः एवम् अध्ययनसामग्री

वाल्मीकिरामायणम् : परीक्षापाठ्यक्रमः वाल्मीकिरामायणमाधारितः अस्ति, येन महाकाव्यस्य व्यापकबोधः प्राप्यते। परिशीलनार्थं गीताप्रेस् पब्लिषर्स्, गोरक्षापुरम् ।

निःशुल्क-अध्ययनसामग्री: सर्वे पञ्जीकृताः अभ्यर्थिनः ओलम्पियाड्सज्जतायां सहायतार्थं पञ्जीकरणप्रक्रियायाः समाप्तेः अनन्तरं स्वयमेव निःशुल्कम् अध्ययनसामग्रीं डाउनलोड् कर्तुं शक्नुवन्ति।

खण्डः ४:
सम्पर्कः अधिकविवरणञ्च

Email: ramayanamolympiad@gmail.com

Phone: +91 8790712319 (केवलं कार्यदिनेषु प्रातः 9.00 तः सायं 6.00वादनपर्यन्तमेव उपलभ्यते ।)

पुरस्काराः प्रशंसापत्राणि च

बालसमूहस्य प्रौढसमूहस्य च कृते पृथक्तया राष्ट्रस्तरीयपुरस्काराः प्रदास्यन्ते ।


प्रथमपुरस्कारः 24,000/-
द्वितीयपुरस्कारः 18,000/-
तृतीयपुरस्कारः 12,000/-
  1. द्वितीयस्तरीयेभ्यः सर्वेभ्यः छात्रेभ्यः तथैव तृतीयस्तरीयेभ्यः प्रौढेभ्यः सर्वेभ्योऽपि प्रशांसपत्रम्, पदकं, संस्कृतपुस्तकं च प्रदास्यन्ते ।
  2. प्रथमस्तरीयाः छात्राः एवं प्रथम-द्वितीयस्तरीयाः प्रौढाः च ई-प्रशंसापत्रं प्राप्तुमर्हन्ति ।

सर्वविधनिर्णयाः संस्थाधीनाः भवन्ति ।.

Click this line to download Notification


Check for updates on www.ramanayaolympiad.com